SANSKRIT QUESTION PAPER CBSE BOARD CLASS 10
Previous Year Question paper CBSE Board Class 10
OLD/ Last Year Question Paper / Previous Year Question Paper
SANSKRIT
सामान्य-निर्देशाः / General Instructions
General Instructions:
-
This question paper is divided into 4 (Four) sections.
-
It has total 18 questions.
-
Section A – 1 Question no. 1
-
Section B – 3 Questions no. 2 to 4
-
Section C – 7 Questions no. 5 to 11
-
Section D – 7 Questions no. 12 to 18
-
Attempt questions as per specific instructions.
-
Write question no. in answer book before attempting it.
सामान्य-निर्देशाः :
-
अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति ।
-
अस्मिन् प्रश्नपत्रे अष्टादश (18) प्रश्नाः सन्ति ।
-
खण्डः 'क' – 1 – प्रश्नसंख्या 1
-
खण्डः 'ख' – 3 – प्रश्नसंख्या 2–4
-
खण्डः 'ग' – 7 – प्रश्नसंख्या 5–11
-
खण्डः 'घ' – 7 – प्रश्नसंख्या 12–18
-
विशिष्टनिर्देशानुसारं प्रश्नाः समाधेयाः ।
-
उत्तरपुस्तिकायां लेखनात् पूर्वं सर्वप्रथमं प्रश्नसंख्या लेखनीया ।
खण्डः 'क' – अपठितावबोधनम् (10 अङ्काः)
1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत – [10]
भारतवर्षः अस्माकं जन्मभूमिः अस्ति । भारतदेशः संसारे प्रसिद्धः अस्ति । अस्यैव अन्नेन, जलेन वायुना च वयं पालिताः पोषिताः च भवामः । इयं जन्मभूमिः भारतभूमिः अस्माकं मातास्ति । अस्याः महिमा वर्णयितुं न शक्यते । इयं सा भारतभूमिः अस्ति, यत्र बहवः महर्षयः देशभक्ताः महाराजाश्च अभवन् । ये स्वबुद्धिबलेन स्वबाहुबलेन च विश्वस्य विजयम् अकुर्वन् । यदा सर्वस्मिन् जगति अविद्यायाः प्रसारः आसीत्, तदा अत्र ऋषयः वेदानां गानम् कुर्वन्ति स्म । ते विदेशान् गत्वा ज्ञानस्य प्रसारम् अकुर्वन् । अत्रैव श्रीरामचन्द्रः, श्रीकृष्णः, गौतमबुद्धः, दयानन्दः अन्ये च महापुरुषाः अभवन्, येषां नाम न केवलं भारतवर्षे अपितु समस्ते जगति प्रसिद्धम् अस्ति । अस्माकं कर्तव्यमस्ति यद् वयं भारतवर्षस्य सदा उन्नतिं रक्षां च कुर्याम ।
(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) [2 × 1 = 2]
(i) जगति कस्याः प्रसारः आसीत् ?
(ii) वयं कस्य सदा उन्नतिं कुर्याम ?
(iii) भारतवर्षः केषां जन्मभूमिः अस्ति ?
(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) [2 × 2 = 4]
(i) अत्र (भारते) के के महापुरुषाः अभवन् ?
(ii) वयं केन पालिताः पोषिताः भवामः ?
(iii) अस्माकं किं कर्तव्यमस्ति ?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत । [1]
(ई) यथानिर्देशम् उत्तरत – (केवलं प्रश्नत्रयम्) [3 × 1 = 3]
(i) 'देशभक्ताः' अस्य पदस्य विशेष्यपदं गद्यांशे किं प्रयुक्तम् ?
(A) बहवः
(B) महर्षयः
(C) महाराजाः
(D) अभवन्
(ii) 'भवामः' क्रियायाः कर्तृपदं किम् ?
(A) ते
(B) वयम्
(C) यूयम्
(D) अहम्
(iii) गद्यांशे 'संसारे' अस्य समानार्थकपदं किं प्रयुक्तम् ?
(A) जगति
(B) भूमौ
(C) भारते
(D) समस्ते
(iv) 'आगत्य' इत्यस्य विपर्ययः कः ?
(A) यदा
(B) ज्ञानस्य
(C) अस्य
(D) गत्वा
खण्डः 'ख' – रचनात्मकं कार्यम् (15 अङ्काः)
2. भवती आशिमा । भवती पुस्तकालयात् एकं संस्कृतपुस्तकं 'सुभाषितम्' स्वीकृत्य पठितवती । तस्य पुस्तकस्य छायाप्रतिं स्वभ्रातुः सकाशं प्रेषयति । अधोलिखितं पत्रं मञ्जूषाप्रदत्तपदैः पूरयित्वा पुनः लिखतु । [10 × 1/2 = 5]
दिल्ली:
दिनाङ्कः ...................
प्रिय (i) ...................
सस्नेहं नमो नमः ।
अत्र कुशलं (ii) ................... । भवान् लिखितवान् यत् संस्कृतभाषायां लिखितं पुस्तकं पठितुम् (iii) ................... । मया पुस्तकालयात् (iv) ................... संस्कृतपुस्तकं स्वीकृत्य पठितम् । तस्मिन् अनेकानि (v) ................... निहितानि सन्ति, येभ्यः मानवाः सदाचारवन्तः भवितुं शक्नुवन्ति । तस्य (vi) ................... छायाप्रतिं कारयित्वा अहं (vii) ................... सकाशं प्रेषयामि । पठने भवतः रुचिः सर्वदा (viii) ................... । भवान् कथमस्ति इति लिखतु । मातापितरौ (ix) ................... प्रणामाञ्जलिः निवेदनीया ।
भवदीया स्नेहसिक्ता
(x) ................... आशिमा
मञ्जूषा :
प्रति, इच्छामि, भगिनी, तत्रास्तु, वर्धताम्, भ्रातः, भवतः, पुस्तकस्य, जीवनमूल्यानि, सुभाषितम्, मम ।
3. अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत । [5 × 1 = 5]
(चित्र विवरण: रामः धनुर्बाणं धारयति, सीता भूमौ शयनं करोति / विश्रामं करोति, वृक्षे शुकः उपविशति)
मञ्जूषा :
हस्ते, उपविशति, सीता, शेते, माला, अस्ति, धनुः, अङ्के, शुकः, अस्ति, वृक्षौ, कण्ठे, रामः, शयनम् ।
(अथवा / OR)
निम्नलिखितं विषयम् अधिकृत्य मञ्जूषा-प्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत – [5 × 1 = 5]
'वृक्षाः अस्माकं मित्राणि'
मञ्जूषा :
परोपकारम्, वृक्षाः, पक्षिभ्यः, सत्पुरुषाः, वासः, आतपम्, सहन्ते, फलानि, छायां, पुष्पाणि, काष्ठम्, गृहाणां कृते, यच्छन्ति, वृष्टिः, भूमेः संरक्षणम्, विश्रामं, सम्यक्, पथिकाः ।
4. अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत – (केवलं वाक्यपञ्चकम्) [5 × 1 = 5]
(i) तुम सब विद्यालय जाते हो । / You all go to school.
(ii) मैं कल अपने मामा के घर गया था । / I went to my maternal uncle's home yesterday.
(iii) धनिक निर्धन को धन देते हैं । / The rich give money to the poor.
(iv) गीता कल गाना गायेगी । / Tomorrow Geeta will sing a song.
(v) यह मेरे मित्र का घर है । / This is my friend's home/house.
(vi) हमें पर्यावरण की रक्षा करनी चाहिए । / We should protect the environment.
(vii) निधेय अपने पिताजी के साथ घूमने जाता है । / Nidheya goes for a walk with his father.
खण्डः 'ग' – अनुप्रयुक्त-व्याकरणम् (25 अङ्काः)
5. अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत – (केवलं प्रश्नचतुष्टयम्) [4 × 1 = 4]
(i) क्रोधो हि शत्रुः प्रथमो नराणाम् ।
(ii) कथं तुषारैः + करैः परितोषयिष्यति ?
(iii) महानगरमध्ये चलदनिशम् कालायसचक्रम् ।
(iv) “एतत् भवान् पश्यति न ?” इति प्रति + अवोचत् ।
(v) आपेदिरेऽम्बरपथं परितः पतङ्गाः ।
6. अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत – (केवलं प्रश्नचतुष्टयम्) [4 × 1 = 4]
(i) रामः कुशलवौ आसनार्धम् उपवेशयति ।
(A) कुशः च लवौ च
(B) कुशः च लवः च
(C) कुशौ च लवौ च
(D) कुशौ च लवः च
(ii) वृक्षस्य उपरि वानरः आरोहति ।
(A) वृक्षे उपरि
(B) वृक्षस्योपरि
(C) वृक्षोपरि
(D) वृक्षौपरि
(iii) अहमेव स्थितप्रज्ञः इव स्थित्वा सर्वेषां रक्षायाः उपायान् चिन्तयिष्यामि ।
(A) स्थिता प्रज्ञा यस्य सः
(B) स्थिता प्रज्ञा यस्याः सा
(C) स्थितः प्रज्ञः यस्या सा
(D) स्थिताः प्रज्ञाः यस्मै तत्
(iv) समयम् अनतिक्रम्य सर्वेषां महत्त्वं विद्यते ।
(A) उपसमयम्
(B) अनुसमयम्
(C) प्रतिसमयम्
(D) यथासमयम्
(v) अभियुक्तः च अतीव कृशकायः आसीत् ।
(A) कृशः च कायः च
(B) कृशं च कायं च
(C) कृशः कायः यस्य सः
(D) कायं च कृशं च
7. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत – (केवलं प्रश्नचतुष्टयम्) [4 × 1 = 4]
(i) कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चित् वित्तम् उपार्जितवान् ।
(A) उप + अर्ज् + क्तवतु
(B) उप + अर्ज् + क्त
(C) उप + अर्ज् + शानच्
(D) उप + अर्जु + अनीयर्
(ii) अवक्र + तल् यथा चित्ते तथा वाचि भवेद्यदि ।
(A) अवक्रत्वम्
(B) अवक्रता
(C) अवक्रतला
(D) अवक्रतल्
(iii) किं कुपिता एवं भणति ?
(A) कुप् + ता
(B) कुपित + ता
(C) कुपित + टाप्
(D) कुपित + तल्
(iv) पुत्रद्वयोपेता बुद्धि + मतुप् पितुर्गृहं प्रति चलिता ।
(A) बुद्धिमान्
(B) बुद्धिमन्तः
(C) बुद्धिमत्यः
(D) बुद्धिमती
(v) तपोवनवासिनो देवी इति नाम्ना आह्वयन्ति ।
(A) देव + ङीष्
(B) देवी + ङीप्
(C) देव + ई
(D) देव + टाप्
8. वाच्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत – (केवलं प्रश्नत्रयम्) [3 × 1 = 3]
(i) राधिका – आराध्ये ! त्वं कुत्र गच्छसि ?
आराध्या – राधिके ! मया तु हट्टम् ..................... ।
(A) गच्छ्यते
(B) गम्यते
(C) गच्छामि
(D) गम्यन्ते
(ii) राधिका – ..................... हट्टं किमर्थं गम्यते ?
आराध्या – अहं पुस्तकं क्रेतुं तत्र गच्छामि ।
(A) त्वम्
(B) त्वया
(C) अहम्
(D) मया
(iii) राधिका – एवं वा । मह्यमपि पुस्तक-पठनं रोचते ।
आराध्या – तव प्रियं पुस्तकं किम् ..................... ?
(A) अस्ति
(B) भूयते
(C) स्तः
(D) सन्ति
(iv) राधिका – मम प्रियं पुस्तकं हितोपदेशः अस्ति ।
आराध्या – अस्तु । अधुना ..................... चलामि ।
(A) मया
(B) आवाभ्याम्
(C) आवाम्
(D) अहम्
9. कालबोधकशब्दैः अधोलिखित-दिनचर्यां पूरयत – (केवलं प्रश्नचतुष्टयम्) [4 × 1 = 4]
(i) राघवः प्रतिदिनं प्रातः (5:30) ..................... वादने उत्तिष्ठति ।
(ii) सः (6:00) ..................... वादने योगासनं करोति ।
(iii) ततः (7:15) ..................... वादने स्नाति ।
(iv) तदनन्तरं मित्रेण सह (8:45) ..................... वादने विद्यालयं गच्छति ।
(v) (2:00) ..................... वादने विद्यालयात् गृहमागच्छति ।
10. मञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत – (केवलं प्रश्नत्रयम्) [3 × 1 = 3]
(i) हयाः नागाः ..................... बोधिताः वहन्ति ।
(ii) यदा किञ्चिद् अविनयं पश्यति ..................... एवम् अधिक्षिपति ।
(iii) न तावत् कलहेन समयं ..................... यापयन्तु ।
(iv) ..................... गच्छति भवान् ?
मञ्जूषा :
वृथा, तदा, कुत्र, च ।
11. अधोलिखितवाक्येषु रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यानि पुनः लिखत – (केवलं प्रश्नत्रयम्) [3 × 1 = 3]
(i) एका सिंहः सुखेन विश्राम्यते ।
(A) एकम्
(B) एकः
(C) एकेन
(D) एकाः
(ii) त्वम् पाठं पठति ।
(A) पठसि
(B) पठामि
(C) पठथः
(D) पठथ
(iii) ह्यः मम मातुलः युद्धक्षेत्रात् प्रत्यागमिष्यति ।
(A) प्रत्यागमिष्यसि
(B) प्रत्यागच्छति
(C) प्रत्यागच्छत्
(D) प्रत्यागच्छन्
(iv) कीदृशः तव मैत्री ?
(A) कीदृशम्
(B) कीदृश्यः
(C) कीदृशी
(D) कथम्
खण्डः 'घ' – पठितावबोधनम् (30 अङ्काः)
12. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत – [5]
कश्चित् कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन् आसीत् । तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तश्चासीत् । अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुदन् अवर्तत । सः ऋषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे पपात । क्रुद्धः कृषीवलः तम् उत्थापयितुं बहुवारम् यत्नमकरोत् । तथापि वृषः नोत्थितः ।
(i) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) [2 × 1/2 = 1]
(क) कृषकः कीदृशं वृषभं तोदनेन नुदन् अवर्तत ?
(ख) तथापि कः न उत्थितः ?
(ग) कः क्षेत्रकर्षणं कुर्वन् आसीत् ?
(ii) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) [2 × 1 = 2]
(क) दुर्बलः वृषभः केन गन्तुमशक्तः आसीत् ?
(ख) कृषकः काभ्यां क्षेत्रकर्षणं कुर्वन् आसीत् ?
(ग) कीदृशः कृषीवलः तमुत्थापयितुं बहुवारं यत्नम् अकरोत् ?
(iii) यथानिर्देशम् उत्तरत – (केवलं प्रश्नद्वयम्) [2 × 1 = 2]
(क) 'क्रुद्धः कृषीवलः' अनयोः विशेष्यपदं किम् ?
(ख) 'सः ऋषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे पपात' अत्र 'पपात' क्रियायाः कर्तृपदं किम् ?
(ग) 'असमर्थः' इत्यस्य पर्यायपदं गद्यांशे किं प्रयुक्तम् ?
13. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत – [5]
गुणी गुणं वेत्ति न वेत्ति निर्गुणो
बली बलं वेत्ति न वेत्ति निर्बलः ।
पिको वसन्तस्य गुणं न वायसः
करी च सिंहस्य बलं न मूषकः ।।
(i) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) [2 × 1/2 = 1]
(क) कः बलं वेत्ति ?
(ख) वायसः कस्य गुणं न वेत्ति ?
(ग) सिंहस्य बलं कः जानाति ?
(ii) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) [2 × 1 = 2]
(क) गुणं कः वेत्ति कः न वेत्ति ?
(ख) वसन्तस्य गुणं कः जानाति ?
(ग) करी कस्य बलं वेत्ति ?
(iii) निर्देशानुसारम् उत्तरत – (केवलं प्रश्नद्वयम्) [2 × 1 = 2]
(क) 'निर्बलः' इत्यस्य विलोमपदं किं प्रयुक्तम् ?
(ख) 'गजः' अस्य कः पर्यायः अत्र प्रयुक्तः ?
(ग) 'न वेत्ति निर्बलः' अत्र क्रियापदं किम् ?
14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत – [5]
रामः – अतिदीर्घः प्रवासोऽयम् दारुणश्च । (विदूषकमवलोक्य जनान्तिकम्) कुतूहलेनाविष्टो मातरमनयोर्नामतो वेदितुमिच्छामि । न युक्तं च स्त्रीगतमनुयोक्तुम्, विशेषतस्तपोवने । तत् कोऽत्राभ्युपायः ?
विदूषकः – (जनान्तिकम्) अहं पुनः पृच्छामि । (प्रकाशम्) किं नामधेया युवयोर्जननी ?
लवः – तस्याः द्वे नामनी ।
विदूषकः – कथमिव ?
लवः – तपोवनवासिनो देवीति नाम्नाह्वयन्ति, भगवान् वाल्मीकिर्वधूरिति ।
रामः – अपि च इतस्तावद् वयस्य ! मुहूर्त्तमात्रम् ।
विदूषकः – (उपसृत्य) आज्ञापयतु भवान् ।
रामः – अपि कुमारयोरनयोरस्माकं च सर्वथा समरूपः कुटुम्बवृत्तान्तः ?
(नेपथ्ये) – इयती वेला सञ्जाता, रामायणगानस्य नियोगः किमर्थं न विधीयते ?
उभौ – राजन् ! उपाध्यायदूतोऽस्मान् त्वरयति ।
रामः – मयापि सम्माननीय एव मुनिनियोगः ।
(i) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) [2 × 1/2 = 1]
(क) 'आज्ञापयतु भवान्' इति कः वदति ?
(ख) 'तस्याः द्वे नामनी' इति कः कथयति ?
(ग) तपोवनवासिनः युवयोः जननीं केन नाम्ना आह्वयन्ति ?
(ii) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) [2 × 1 = 2]
(क) कः अस्मान् त्वरयति ?
(ख) 'वधूः' इति नाम्ना सीतां कः आह्वयति ?
(ग) रामः केन आविष्टः अनयोः मातरं नामतो वेदितुम् इच्छति ?
(iii) निर्देशानुसारम् उत्तरत – (केवलं प्रश्नद्वयम्) [2 × 1 = 2]
(क) 'अहं पुनः पृच्छामि' अत्र 'पृच्छामि' क्रियायाः कर्तृपदं किम् ?
(ख) 'ज्ञातुम्' इति पदस्य समानार्थकं पदं किम् ?
(ग) 'अतिदीर्घः प्रवासः' अनयोः विशेषणपदं किम् ?
15. अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत – (केवलं प्रश्नचतुष्टयम्) [4 × 1 = 4]
(i) बकः छलेन मीनान् भक्षयति ।
(ii) मन्त्री सभायाम् अपि अकातरः भवेत् ।
(iii) निर्मलम् जलं नास्ति ।
(iv) बुद्धिमती आत्मपुत्रौ चपेटया प्रहरन्ती जगाद ।
(v) सः कृच्छ्रेण भारं वहति ।
16. मञ्जूषायाः सहायतया अधोलिखितश्लोकस्य अन्वयं पूरयित्वा पुनः लिखत – [4 × 1 = 4]
विचित्रे खलु संसारे नास्ति किञ्चित् निरर्थकम् ।
अश्वश्चेद् धावने वीरः भारस्य वहने खरः ।।
अन्वयः :
(i) ................... संसारे खलु किञ्चित् (ii) ................... न अस्ति । (iii) ................... चेद् धावने वीरः (तर्हि) भारस्य (iv) ................... खरः (वीरः) भवति ।
मञ्जूषा :
वहने, विचित्रे, अश्वः, निरर्थकम् ।
(अथवा / OR)
अधोलिखितश्लोकस्य भावार्थे रिक्तस्थानानि मञ्जूषायाः साहाय्येन पूरयित्वा पुनः लिखत – [4 × 1 = 4]
त्यक्त्वा धर्मप्रदां वाचं परुषाम् योऽभ्युदीरयेत् ।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः ।।
भावार्थः :
यः जनः धर्मप्रदां (i) ................... वदति, सः न केवलं स्वस्य जीवनम् अपितु अन्येषामपि जीवनं रसमयं करोति । किन्तु (ii) ................... उक्त्वा यः सर्वत्र कटुतां (iii) ................... एतादृशः जनः मूर्खः भवति । कठोरवचनानां प्रयोगः तु (iv) ................... कटुफलस्य भक्षणस्य सदृशम् एव भवति ।
मञ्जूषा :
कठोरवचनम्, अपक्वस्य, प्रसारयति, वाचम् ।
17. अधोलिखितानि वाक्यानि घटनाक्रमानुसारं संयोज्य पुनः लिखत – [8 × 1/2 = 4]
(i) तत्र राजसिंहः नाम राजपुत्रः वसति स्म ।
(ii) सा व्याघ्रमागच्छन्तं दृष्ट्वा धार्ष्र्यात् पुत्रौ चपेटया प्रहृत्य जगाद ।
(iii) अस्ति देउलाख्यो ग्रामः ।
(iv) पश्चाद् अन्यो द्वितीयः कश्चिद् लक्ष्यते ।
(v) मार्गे गहनकानने सा एकं व्याघ्रं ददर्श ।
(vi) अयमेकस्तावद् विभज्य भुज्यताम् ।
(vii) कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः ?
(viii) तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता ।
18. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत – (केवलं प्रश्नत्रयम्) [3 × 1 = 3]
(i) यदि एवं तर्हि मां निजगले बद्ध्वा सत्वरम् चल ।
(A) शीघ्रम्
(B) सत्यम्
(C) वनम्
(D) अनृतम्
(ii) वायुमण्डलं भृशम् दूषितमस्ति ।
(A) न्यूनम्
(B) अत्यधिकम्
(C) सर्वम्
(D) अन्तिकम्
(iii) दुर्बलः वृषः जवेन गन्तुम् अशक्तः चासीत् ।
(A) समर्थः
(B) सबलः
(C) असमर्थः
(D) शक्यः
(iv) गावश्च गोभिः तुरगाः तुरगैः ।
(A) खराः
(B) गजाः
(C) सिंहाः
(D) अश्वाः
Previous Year Question paper CBSE Class 10 -2026
MATHEMATICS BASICS QUESTION PAPER
MATHEMATICS STANDARD QUESTION PAPER
MARKETING SALES QUESTION PAPER