CBSE CLASS 10 SANSKRIT Question Paper
CBSE Class 10 Previous Year Question Paper Subject : SANSKRIT
SANSKRIT
General Instructions:
-
Question paper is divided into 4 sections.
-
It has total 18 questions.
-
Section A - 1 Question no. 1
-
Section B - 3 Questions no. 2 to 4
-
Section C - 7 Questions no. 5 to 11
-
Section D - 7 Questions no. 12 to 18
-
Attempt questions as per specific instructions.
-
Write question no. in answer book before attempting it.
सामान्य निर्देशाः
-
अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति ।
-
अस्मिन् प्रश्नपत्रे अष्टादश (18) प्रश्नाः सन्ति ।
-
खण्डः 'क' - 1 - प्रश्नसंख्या 1
-
खण्डः 'ख' - 3 - प्रश्नसंख्या 2-4
-
खण्डः 'ग' - 7 - प्रश्नसंख्या 5-11
-
खण्डः 'घ' - 7 - प्रश्नसंख्या 12-18
-
विशिष्टनिर्देशानुसारं प्रश्नाः समाधेयाः ।
-
उत्तरपुस्तिकायां लेखनात् पूर्वं सर्वप्रथमं प्रश्नसंख्या लेखनीया ।
खण्डः 'क'
अपठितावबोधनम् (10 अङ्काः)
1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत : (10)
'संस्कृतभाषा सर्वभाषाणां जननी' इत्युच्यते । परम् अद्यत्वे छात्राणां मध्ये एकः चर्चितः प्रश्नः वर्तते यत् “संस्कृतपठनेन के लाभाः ?" अर्थात् संस्कृतपठनेन जीवनवृत्तेः अवसराः के ? वस्तुतः भौतिके युगे ईदृशी जिज्ञासा स्वाभाविकी एव । अस्याः जिज्ञासायाः समुचितं समाधानं सञ्चारमाध्यमेन कर्तुं शक्यते । वयम् पश्यामः यत् अद्यत्वे संस्कृतपठनेन नैके लाभाः सन्ति । संस्कृतभाषा विश्वस्य प्राचीनतमासु भाषासु अन्यतमा अस्ति । ऐतिहासिकदृष्ट्या संस्कृते लिखिताः ग्रन्थाः वेदाः महत्त्वपूर्णं स्थानं भजन्ते । आधुनिकसंस्कृतस्य वैज्ञानिकभाषारूपेण सर्वत्र महत्त्वपूर्णं स्थानं दृश्यते । यदा विश्वं कृत्रिममेधा विषये अनुसन्धानं करोति तत्र संस्कृतं महत् साहाय्यं कर्तुं शक्नोति । यतो हि संस्कृतस्य व्याकरणं पूर्णतया वैज्ञानिकम् अस्ति । वर्तमानसमये संस्कृतस्य अध्येतारः शिक्षणकौशल-चिकित्सा-खगोल-विद्या-वास्तुविद्या-'आई.ए.एस.' प्रभृति । सर्वेषु क्षेत्रेषु स्वप्रतिभाप्रदर्शनं कुर्वन्ति । अस्माकं संस्कृतिः संस्कृताधारिता अपि । अत एव संस्कृतभाषायाः अध्ययनं जीवनमूल्यपरकम् जीवनवृत्तिसाधनपरम् च अस्ति, नात्र कोऽपि सन्देहः ।
(अ) एकपदेन उत्तरत : (केवलं प्रश्नद्वयम्) (2×1=2)
(i) सर्वभाषाणां जननी का ?
(ii) अस्माकं संस्कृतिः का आधारिता वर्तते ?
(iii) कस्य व्याकरणं वैज्ञानिकम् ?
(आ) पूर्णवाक्येन उत्तरत : (केवलं प्रश्नद्वयम्) (2×2=4)
(i) ऐतिहासिकदृष्ट्या के महत्त्वपूर्णं स्थानं भजन्ते ?
(ii) वर्तमानसमये शिक्षणकौशलादिषु सर्वेषु क्षेत्रेषु के स्वप्रतिभा-प्रदर्शनं कुर्वन्ति ?
(iii) संस्कृतभाषायाः अध्ययनं कीदृशम् अस्ति ?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत । (1)
(ई) यथानिर्देशम् उत्तरत : (केवलं प्रश्नत्रयम्) (3×1=3)
(i) 'पश्यामः' इति क्रियापदस्य कर्तृपदं किम् ?
(A) नैके
(B) वयम्
(C) लाभाः
(D) संस्कृतपठनेन
(ii) 'समुचितम्' इति विशेषणपदस्य विशेष्यपदं किम् ?
(A) समाधानम्
(B) संस्कृतशिक्षकः
(C) स्वानुभवैः
(D) जिज्ञासायाः
(iii) 'हानयः' इति पदस्य किं विपर्ययपदं गद्यांशे प्रयुक्तम् ?
(A) सन्ति
(B) लिखिताः
(C) लाभाः
(D) नैके
(iv) 'अध्येतारः' इति कर्तृपदस्य क्रियापदं किं प्रयुक्तम् ?
(A) अस्ति
(B) सन्ति
(C) भजन्ते
(D) कुर्वन्ति
खण्डः 'ख'
रचनात्मकं कार्यम् (15 अङ्काः)
2. भवान् सौरवः । स्वमित्रं शाश्वतं प्रति स्वयात्रावृत्तान्तविषये लिखितं पत्रं मञ्जूषायाः पदैः पूरयित्वा पुनः लिखतु । (10 × 1/2 = 5)
प्रयागराजतः
दिनाङ्कः .................
प्रिय मित्र (i) ............ !
सस्नेहं (ii) ............
अत्र सर्वं कुशलं तत्रास्तु । गतमासे अहं (iii) ............ शिमलां गतवान् । तत्र पर्वतानां (iv) ............ दृष्ट्वा मम मनः अतीव (v) ............ जातम् । तत्र (vi) ............ पर्यावरणं वर्तते । शिमला (vii) ............ राजधानी अस्ति । अतः तत्र सर्वत्र विकासः दृश्यते । देशात् विदेशेभ्यः च पर्यटकाः भ्रमणाय आगच्छन्ति । अहमपि शिमलाभ्रमणं कृत्वा आत्मानं (viii) ............ मन्ये । भवान् अपि समयं प्राप्य एकवारं (ix) ............ गच्छेत् ।
भवदीयं प्रियं मित्रम्
(x) ............
मञ्जूषा: सौरवः, शिमलाम्, भ्रमणाय, प्रसन्नम्, धन्यम्, सौन्दर्यम्, शुद्धम्, हिमाचलप्रदेशस्य, नमोनमः, शाश्वत !
3. प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत । (5×1=5)
मञ्जूषा: सुन्दराणि, अनेकानि, चित्राणि, ऐतिहासिकस्थानानि, भवनानि, नौका, नद्याम्, ताजमहलम्, पर्वताः, सन्ति, मन्दिरम्, रक्तदुर्गम् ।
अथवा
निम्नलिखितं विषयमधिकृत्य मञ्जूषाप्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत :
'मम प्रियं पुस्तकम्'
मञ्जूषा: मम, पठने, महती, ज्ञानस्य, साधनम्, भगवद्गीता, पुस्तकम्, प्रियम्, रुचिः, गीतायाम्, भण्डारः, कर्मयोगः, भक्तियोगः, अर्जुनम् प्रति, उपदेशः ।
4. अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत : (केवलं वाक्यपञ्चकम्) (5×1=5)
(i) मधुर मेरा मित्र है । / Madhur is my friend.
(ii) अनेक लोग उद्यान में घूम रहे हैं । / Many people are walking in the park.
(iii) हम सब घर जा रहे हैं । / We all are going home.
(iv) रमा ने कल संस्कृत गीत गाया । / Rama sang a Sanskrit song yesterday.
(v) विद्यालय में सौ शिक्षक हैं । / There are hundred teachers in the school.
(vi) कल दस बजे परीक्षा होगी । / The examination will be held tomorrow at 10 o'clock.
(vii) मैं हिन्दी भाषा जानता हूँ । / I know Hindi language.
खण्डः 'ग'
अनुप्रयुक्तव्याकरणम् (25 अङ्काः)
5. अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत : (केवलं प्रश्नचतुष्टयम्) (4×1=4)
(i) अभियुक्तः + च अतीव कृशकायः ।
(ii) बसयानं विहाय पदातिरेव प्राचलत् ।
(iii) न कः + अपि त्रैलोक्ये मत्सदृशः ।
(iv) धिङ् मामेवं भूतम् ।
(v) सर्वथा सम्यगुक्तम् ।
6. अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत : (केवलं प्रश्नचतुष्टयम्) (4×1=4)
(i) किं वनराजपदाय सुपात्रं चीयते ?
(A) वनराजः पदाय
(B) वनराजा पदाय
(C) वनराजे पदाय
(D) वनराजस्य पदाय
(ii) दीने पुत्रे माता कृपया आर्द्रं हृदयं यस्याः सा भवेत् ।
(A) कृपार्द्रहृदया
(B) कृपयार्द्रहृदया
(C) कृपहृदयार्द्रा
(D) कृपाद्राहृदया
(iii) कुशलवौ सभां प्रविशतः ।
(A) लवः कुशाः च
(B) कुशः लवौ च
(C) कुशः च लवः च
(D) कुशौ च लवौ च
(iv) प्रजासुखे सुखं राज्ञः ।
(A) प्रजा सुखे च
(B) प्रजानां सुखे
(C) प्रजाः सुखं च
(D) प्रजायाः सुखं च
(v) सव्यवधानं न चारित्रलोपाय ।
(A) व्यवधानं सह
(B) व्यवधानेन सहितम्
(C) व्यवधानाय सहितम्
(D) व्यवधानस्य सहितम्
7. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत : (केवलं प्रश्नचतुष्टयम्) (4×1=4)
(i) 'विद्वान्' एव चक्षुष्मान् प्रकीर्तितः ।
(A) चक्षुष् + टाप्
(B) चक्षुष् + मतुप्
(C) चक्षुष् + ङीप्
(D) चक्षुष् + वतुप्
(ii) मम नृत्यं प्रकृतेः आराधन + टाप् ।
(A) आराधनम्
(B) आराधनः
(C) आराधना
(D) आराधनता
(iii) चित्ते 'अवक्रता' भवेत् ।
(A) अवक्र + टाप्
(B) अवक्र + ङीप्
(C) अवक्र + त्व
(D) अवक्र + तल्
(iv) इयं काचित् व्याघ्रमारी इति ।
(A) व्याघ्रमार + टाप्
(B) व्याघ्रमार + ङीप्
(C) व्याघ्रमार + मतुप्
(D) व्याघ्रमार + ई
(v) वेदानां महत् + त्व को न जानाति ?
(A) महत्त्वम्
(B) महत्ता
(C) महत्वम्
(D) महात्वम्
8. वाच्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा संवादं पुनः लिखत : (केवलं प्रश्नत्रयम्) (3×1=3)
(i) शिवा – रमे ! अद्य विलम्बेन कथम् ?
रमा – शिवे ! अद्य ............ उत्सवं द्रष्टुं गच्छामि ।
(A) मम
(B) माम्
(C) मया
(D) अहम्
(ii) शिवा – किं तत्र तव सखी अपि गच्छति ?
रमा – नहि, तत्र ............ एव गम्यते ।
(A) अहम्
(B) सख्या
(C) वयम्
(D) मया
(iii) शिवा – साधु ! किं तत्र जनाः अपि उत्सवं पश्यन्ति ?
रमा – आम्, तत्र जनैः अपि ............ दृश्यते ।
(A) उत्सवः
(B) उत्सवम्
(C) उत्सवान्
(D) उत्सवौ
(iv) शिवा – रमे ! अद्य विद्यालये सङ्गीत-प्रतियोगिता भवति ।
रमा – शोभनम् । तत्र मया अपि गीतं ............ ।
(A) गायामि
(B) गायति
(C) गीयते
(D) गीयन्ते
9. कालबोधकशब्दैः अधोलिखित-दिनचर्यां पूरयत : (केवलं प्रश्नचतुष्टयम्) (4×1=4)
(i) चरितार्थः प्रातः 7:00 ............ वादने उद्यानं गच्छति ।
(ii) 8:00 ............ वादने सः गृहं प्रत्यागच्छति ।
(iii) तस्य प्रथमा कक्ष्या 9:30 ............ वादने भवति ।
(iv) 12:45 ............ वादने सः अध्ययनकार्यात् मुक्तो भवति ।
(v) सः 2:15 ............ वादने क्रीडितुं क्रीडाक्षेत्रं गच्छति ।
10. मञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत : (केवलं प्रश्नत्रयम्) (3×1=3)
(i) गङ्गा हिमालयात् प्रभवति, यमुना ............ प्रभवति ?
(ii) विद्यालये ............ कार्यक्रमः भविष्यति ।
(iii) ............ वृष्टिः प्रारभत ।
(iv) धनस्य ............ प्रयोगं मा कुर्युः ।
मञ्जूषा: सहसा, वृथा, श्वः, कुतः
11. अधोलिखितवाक्येषु रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यानि पुनः लिखत : (केवलं प्रश्नत्रयम्) (3×1=3)
(i) क्रीडाक्षेत्रे छात्राः पठथः ।
(A) पठसि
(B) पठथ
(C) पठामः
(D) पठन्ति
(ii) ह्यः विद्यालयस्य वार्षिकोत्सवः भविष्यति ।
(A) भवति
(B) भवतु
(C) अभवत्
(D) भवेत्
(iii) बलीवर्दः शरीरेण दुर्बलम् आसीत् ।
(A) दुर्बलः
(B) दुर्बला
(C) दुर्बलस्य
(D) दुर्बलात्
(iv) महावृक्षाः सेवितव्यः ।
(A) महावृक्षे
(B) महावृक्षः
(C) महावृक्षस्य
(D) महावृक्षम्
खण्डः 'घ'
पठितावबोधनम् (30 अङ्काः)
12. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत : (5)
आरक्षी सुपुष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकायः । भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत् । स भारवेदनया क्रन्दति स्म । तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच “रे दुष्ट ! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः । इदानीं निजकृत्यस्य फलं भुङ्क्ष्व । अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे" इति प्रोच्य उच्चैः अहसत् । यथाकथञ्चिद् उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ । न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ । आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यम् अघटत् स शवः प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान् मान्यवर ! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि 'त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः, अतः निजकृत्यस्य फलं भुङ्क्ष्व ।'
(i) एकपदेन उत्तरत : (केवलं प्रश्नद्वयम्) (2 × 1/2 = 1)
(क) सुपुष्टदेहः कः आसीत् ?
(ख) अभियुक्ताय भारवतः कस्य वहनं दुष्करम् आसीत् ?
(ग) कृशकायः कः आसीत् ?
(ii) पूर्णवाक्येन उत्तरत : (केवलं प्रश्नद्वयम्) (2×1=2)
(क) आरक्षी अभियुक्तं प्रति दण्डविषये किम् प्रोच्य उच्चैः अहसत् ?
(ख) अभियुक्तः कया क्रन्दति स्म ?
(ग) उभौ शवम् आनीय कुत्र स्थापितवन्तौ ?
(iii) निर्देशानुसारम् उत्तरत : (केवलं प्रश्नद्वयम्) (2×1=2)
(क) 'त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे' अत्र वाक्ये कर्तृपदं किम् ?
(ख) 'चोरितायाः' इति विशेषणपदस्य विशेष्यपदं किम् ?
(ग) 'प्रणम्य' इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम् ?
13. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत : (5)
पिता यच्छति पुत्राय बाल्ये विद्याधनं महत् ।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता ।।
(i) एकपदेन उत्तरत : (केवलं प्रश्नद्वयम्) (2 × 1/2 = 1)
(क) पिता कदा विद्याधनं यच्छति ?
(ख) पिता कस्मै विद्याधनं यच्छति ?
(ग) कः तपः तेपे ?
(ii) पूर्णवाक्येन उत्तरत : (केवलं प्रश्नद्वयम्) (2×1=2)
(क) का उक्तिः कृतज्ञता ?
(ख) पिता पुत्राय कीदृशं विद्याधनं यच्छति ?
(ग) पिता पुत्राय बाल्ये कीदृशं धनं यच्छति ?
(iii) निर्देशानुसारम् उत्तरत : (केवलं प्रश्नद्वयम्) (2×1=2)
(क) 'सुताय' इति पदस्य पर्यायपदं किम् ?
(ख) 'महत्' इति पदस्य विशेष्यपदं किम् ?
(ग) 'यच्छति' इति पदस्य कर्तृपदं किम् ?
14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत : (5)
रामः – अहो ! उदात्तरम्यः समुदाचारः । किं नामधेयो भवतोर्गुरुः ?
लवः – ननु भगवान् वाल्मीकिः ।
रामः – केन सम्बन्धेन ?
लवः – उपनयनोपदेशेन ।
रामः – अहमत्रभवतोः जनकं नामतो वेदितुमिच्छामि ।
लवः – न हि जानाम्यस्य नामधेयम् । न कश्चिदस्मिन् तपोवने तस्य नाम व्यवहरति ।
रामः – अहो माहात्म्यम् ।
कुशः – जानाम्यहं तस्य नामधेयम् ।
रामः – कथ्यताम् ।
कुशः – निरनुक्रोशो नाम ।
रामः – वयस्य, अपूर्वं खलु नामधेयम् ।
विदूषकः – (विचिन्त्य) एवं तावत् पृच्छामि । निरनुक्रोश इति क एवं भणति ?
कुशः – अम्बा ।
(i) एकपदेन उत्तरत : (केवलं प्रश्नद्वयम्) (2 × 1/2 = 1)
(क) लवस्य गुरोः नाम किम् ?
(ख) लवकुशयोः गुरोः नाम कः पृच्छति ?
(ग) लवस्य पितुः नाम कः जानाति ?
(ii) पूर्णवाक्येन उत्तरत : (केवलं प्रश्नद्वयम्) (2×1=2)
(क) वाल्मीकिः केन सम्बन्धेन लवकुशयोः गुरुः अस्ति ?
(ख) कुशः स्वपितुः नाम किं ज्ञापयति ?
(ग) कः लवकुशयोः जनकस्य नाम वेदितुम् इच्छति ?
(iii) निर्देशानुसारम् उत्तरत : (केवलं प्रश्नद्वयम्) (2×1=2)
(क) 'वाल्मीकिः' इति पदस्य विशेषणपदं किम् ?
(ख) 'जानामि' इति पदस्य कर्तृपदं किम् ?
(ग) 'माता' इति पदस्य पर्यायपदं किं प्रयुक्तम् ?
15. अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत : (केवलं प्रश्नचतुष्टयम्) (4×1=4)
(i) यः आत्मनः श्रेयः इच्छति ।
(ii) सुरभिः पुत्रस्य दैन्यं दृष्ट्वा रोदिति ।
(iii) त्वं मानुषात् बिभेषि ।
(iv) काकः कृष्णः भवति ।
(v) हरिततरूणां माला रमणीया ।
16. मञ्जूषायाः सहायतया अधोलिखितश्लोकस्य अन्वयं पूरयित्वा पुनः लिखत : (4×1=4)
'प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टाः ।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा ।।
मानवाय जीवनं कामये नो जीवन्मरणम् । शुचि ।।'
अन्वयः:
(i) ............ प्रस्तरतले पिष्टाः नो (ii) ............ । निसर्गे (iii) ............ सभ्यता समाविष्टा न (iv) ............ । मानवाय जीवनं कामये नो जीवन्मरणम् ।
मञ्जूषा: पाषाणी, स्यात्, लतातरूगुल्माः, भवन्तु
अथवा
अधोलिखितश्लोकस्य भावार्थे रिक्तस्थानानि मञ्जूषायाः साहाय्येन पूरयित्वा पुनः लिखत :
एक एव खगो मानी वने वसति चातकः ।
पिपासितो वा म्रियते याचते वा पुरन्दरम् ।।
भावार्थः
वने केवलम् (i) ............ एव (ii) ............ स्वाभिमानी पक्षी वसति । सः (iii) ............ वा म्रियते अथवा केवलं जलं (iv) ............ याचते अर्थात् सः सर्वं न याचते ।
मञ्जूषा: चातकः, एकः, पिपासितः, इन्द्रदेवम्
17. अधोलिखितानि वाक्यानि घटनाक्रमानुसारं संयोज्य पुनः लिखत : (8 × 1/2 = 4)
(i) निर्धनस्य पुत्रः छात्रावासे निवसन् अध्ययने संलग्नो जातः ।
(ii) तेन वित्तेन स्वपुत्रं एकस्मिन् महाविद्यालये प्रवेशं कारितवान् ।
(iii) कश्चन निर्धनः जनः परिश्रमेण किञ्चित् धनम् अर्जितवान् ।
(iv) पुत्रस्य रुग्णतां श्रुत्वा पिता व्याकुलो जातः ।
(v) पुत्रः छात्रावासे रुग्णः जातः ।
(vi) सायङ्कालो जातः परं गन्तव्यात् सः पुत्रः दूरे आसीत् ।
(vii) निर्धनः स्वपुत्रं द्रष्टुं पदातिः एव प्राचलत् ।
(viii) सः पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कमपि गृहम् उपागतः ।
18. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत : (केवलं प्रश्नत्रयम्) (3×1=3)
(i) कश्चन निर्धनः वित्तम् उपार्जितवान् ।
(A) वायुम्
(B) फलम्
(C) धनम्
(D) अन्नम्
(ii) अपरः वानरः सिंहस्य पुच्छं धुनाति ।
(A) अनेकाः
(B) अन्यः
(C) प्रथमः
(D) एकः
(iii) रसालमुकुलानि भृङ्गाः समाश्रयन्ते ।
(A) हयाः
(B) नागाः
(C) गजाः
(D) भ्रमराः
(iv) वासव ! अहं पुत्रस्य दैन्यं दृष्ट्वा रोदिमि ।
(A) पुत्र !
(B) इन्द्र !
(C) गणेश !
(D) शिव !
CBSE CLASS 10 Artificial Intelligence